|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.3. अध्यायः 003
Mahabharata - Bhishma Parva - Chapter Topics
व्यासेन धृतराष्ट्रंप्रति दुर्निमित्तप्रादुर्भावकथनम् ॥ 1 ॥ तथा जेप्यतां जयसूचकलिङ्गकथनम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text
व्यास उवाच। 6-3-0x(3955)(38692)
खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः।
अनार्तवं पुष्पफलं दर्शयन्ति वनद्रुमाः ॥ 6-3-1(38693)
गर्भिण्योऽजातपुत्राश्च जनयन्ति विभीषणान् ।
क्रव्यादाः पक्षिभिश्चापि सहा श्नन्ति परस्परम् ॥ 6-3-2(38694)
त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः ।
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ॥ 6-3-3(38695)
जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः ।
त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ॥ 6-3-4(38696)
तथैवान्याश्च दृश्यन्ते स्त्रियो वै ब्रह्मवादिनाम् ।
वैनतेयान्मयूरांश्च जनयन्ति पुरे तव ॥ 6-3-5(38697)
गोवत्सं वडवा सूते श्वा सृगालं महीपते ।
कुक्कुरान्करभाश्चैव शुकाश्चाशुवादिनः ॥ 6-3-6(38698)
स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः ।
जातमात्राश्च नृत्यन्ति गायन्त च हसन्ति च ॥ 6-3-7(38699)
पृथग्जनस्य सर्वस्य क्षुद्रकाः प्रहसन्ति च।
नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् ॥ 6-3-8(38700)
प्रतिमाश्चालिखन्त्येताः सशस्त्राः कालचोदिताः ।
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः ॥ 6-3-9(38701)
अन्योन्यमभिमृद्गन्ति नगराणि युयुत्सवः ।
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च ॥ 6-3-10(38702)
विष्व्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति।
अभीक्ष्णं कम्पते भूमिरर्कं राहुरुपैति च ॥ 6-3-11(38703)
श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति ।
अभावं हि विशेषेण कुरूणां तत्र पश्यति ॥ 6-3-12(38704)
धूमकेतुर्महाघोरः पुष्यं चाक्रम्य तिष्ठति ।
सेनयोरशिवं घोरं करिष्यति महाग्रहः ॥ 6-3-13(38705)
मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः ।
भगं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते ॥ 6-3-14(38706)
शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विरोचते ।
उत्तरे तु परिक्रम्य सहितः समुदीक्षते ॥ 6-3-15(38707)
श्यामो ग्रहः प्रज्वलितः सधूम इव पावकः ।
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ॥ 6-3-16(38708)
ध्रुवं प्रज्वलितो घोरमपसव्यं प्रवर्तते ।
रोहिणीं पीडयत्येवमुभौ च शशिभास्करो ।
चित्रास्वात्यन्तरे चैव विष्ठितः परुषग्रहः ॥ 6-3-17(38709)
वक्रानुवक्रं कृत्वा च श्रवणं पावकप्रभः ।
ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ॥ 6-3-18(38710)
सर्वसस्यपरिच्छन्ना पृथिवी सस्यमालिनी ।
पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः ॥ 6-3-19(38711)
प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् ।
ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ॥ 6-3-20(38712)
निश्चेरुरर्चिषश्चापात्खङ्गाश्च ज्वलिता भृशम् ।
व्यक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम् ॥ 6-3-21(38713)
अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च।
कवचानां ध्वजानां च भविष्यति महाक्षयः ॥ 6-3-22(38714)
पृथिवी शोणितावर्ता ध्वजोडुपसमाकुला ।
कुरूणां वैशसे राजन्पाण्डवैः सह भारत ॥ 6-3-23(38715)
दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः ।
अत्याहितं दर्शयन्तः क्षत्रियाणां महद्भयम् ॥ 6-3-24(38716)
एकपक्षाक्षिचरणाः शकुन्ताः खेचरा निशि।
रौद्रं वदन्ति संरब्धाः शोणितं छर्दयन्ति च ॥ 6-3-25(38717)
ग्रहौ ताम्रारुणनिभौ प्रज्वलन्ताविव स्थितौ ।
सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् ॥ 6-3-26(38718)
संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ ।
विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ ॥ 6-3-27(38719)
चन्द्रादित्यावुभौ ग्रस्तावेकाह्ना हि त्रयोदशीम्।
अपर्वमि ग्रहं यातौ प्रजासंक्षयमिच्छतः ॥ 6-3-28(38720)
अशोभिता दिशः सर्वाः पांसुवर्षैः समन्ततः।
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ॥ 6-3-29(38721)
कृत्तिकां पीडयंस्तीक्ष्णैर्नक्षत्रं पृथिवीपते ।
अभीक्ष्णवाता वायन्ते धूमकेतुमवस्थिताः ॥ 6-3-30(38722)
विषमं जनयन्त्येत आक्रन्दजननं महत्।
त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशांपते ।
बुधः संपततेऽभीक्ष्णं जनयन्प्राणिनां भयम् ॥ 6-3-31(38723)
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम्।
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम् ।
चन्द्रसूर्यावुभौ ग्रस्तावेकान्हा हि त्रयोदशीम् ॥ 6-3-32(38724)
अपर्वणि ग्रहेणैतौ प्रजाः संक्षपयिष्यतः ।
मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् ।
शोणितैर्वक्रसंपूर्णा अतृप्तास्तत्र राक्षसाः ॥ 6-3-33(38725)
प्रतिस्नोतोवहा नद्यः सरितः शोणितोदकाः ।
फेनायमानाः कूपाश्च कूर्दन्ति वृषभा इव ॥ 6-3-34(38726)
पतन्त्युल्काः सनिर्घाताः शक्राशनिसमप्रभाः ।
अद्य चैव निशां व्युष्टामनयं समवाप्स्यथ ॥ 6-3-35(38727)
विनिःसृत्य महोल्काभिस्तिमिरं सर्वतो दिशम् ।
अन्योन्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः ।
भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ॥ 6-3-36(38728)
कैलासमन्दराभ्यां तु तथा हिमवतो विभो ।
सहस्रशो महाशब्दं शिखराणि पतन्ति च ॥ 6-3-37(38729)
महाभूता भूमिकम्पे चत्वारः सागराः पृथक् ।
वेलामुद्वर्तयन्तीव क्षोभयन्तो वसुन्धराम् ॥ 6-3-38(38730)
वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः ।
आभग्राः सुमहावातैरशनीभिः समाहताः ॥ 6-3-39(38731)
वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च ।
नीललोहितपीतश्च भवत्यग्निर्हुतो द्विजैः ॥ 6-3-40(38732)
वामार्चिर्दुष्टगन्धश्च मुञ्चन्वै दारुणं स्वनम् ।
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ॥ 6-3-41(38733)
धूमं ध्वजाः प्रमुञ्चन्ति कम्पमाना मुहुर्मुहुः ।
मुञ्चन्त्यङ्गारवर्षं च भेर्यश्च पटहास्तथा ॥ 6-3-42(38734)
शिखराणां समृद्धानामुपरिष्टात्समन्ततः ।
वायसाश्च रुवन्त्युग्रं वामं मण्डलमाश्रिताः ॥ 6-3-43(38735)
पक्वापक्वेऽतिसुभृशं वावाश्यन्ते वयांसि च।
निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् ॥ 6-3-44(38736)
ध्यायन्तः प्रकिरन्तश्च व्याला वेपथुसंयुताः ।
दीनास्तुरंगमाः सर्वे वारणाः सलिलाश्रयाः ॥ 6-3-45(38737)
`एवंविधं दुर्निमित्तं क्षयाय पृथीवीक्षिताम्।
भौमं दिव्यं चान्तरिक्षं त्रिविधं जायतेऽनिशम्' 6-3-46(38738)
एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम्।
यथा लोकः समुच्छेदं नायं गच्छेत भारत ॥ 6-3-47(38739)
वैशम्पायन उवाच। 6-3-48x(3956)
पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् ।
दिष्टमेतत्पुरा मन्ये भविष्यति नरक्षयः ॥ 6-3-48(38740)
राजानः क्षत्रधर्मेण यदि वध्यन्ति संयुगे।
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ॥ 6-3-49(38741)
इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् ।
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ॥ 6-3-50(38742)
वैशम्पायन उवाच। 6-3-51x(3957)
एवं मुनिस्तथेत्सुक्त्वा कवीन्द्रो राजसत्तम।
धृतराष्ट्रेण पुत्रेण ध्यानमन्वगमत्परम् ॥ 6-3-51(38743)
स मुहूर्तं तथा ध्यात्वा पुनरेवाब्रवीद्वचः ।
असंशयं पार्थिवेन्द्र कालः संक्षयते जगत् ॥ 6-3-52(38744)
सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम्।
ज्ञातीनां वै कुरूणां च संबन्धिसुहृदां तथा ॥ 6-3-53(38745)
धर्म्यं दर्शय पन्थानं समर्थो ह्यसि वारणे ।
क्षुद्रं जातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् ॥ 6-3-54(38746)
कालोऽयं पुत्ररूपेण तव जातो विशांपते ।
न वधः पूज्यते वेदे हितं नैव कथंचन ॥ 6-3-55(38747)
हन्यात्स एनं यो हन्यात्कुलधर्मं स्विकां तनुम् ।
कालेनोत्पथगन्तसि शक्ये सति यथाऽऽपदि ॥ 6-3-56(38748)
कुलस्यास्य विनाशाय तथैव च महीक्षिताम् ।
अनर्थो राज्यरूपेण तव जातो विशांपते ॥ 6-3-57(38749)
लुप्तधर्मा परेणासि धर्मं दर्शय वै सुतान् ।
किं ते राज्येन दुर्धर्षयेन प्राप्तोऽसि किल्विषम् ॥ 6-3-58(38750)
यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि ।
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ॥ 6-3-59(38751)
वैशम्पायन उवाच। 6-3-60x(3958)
एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः ।
प्रशस्य वाक्यं वाक्यज्ञो वाक्यं चैवाब्रवीत्पुनः ॥ 6-3-60(38752)
धृतराष्ट्र उवाच। 6-3-61x(3959)
यथा भवान्वेत्ति तथैव वेत्ता
भावाभावौ विदितौ मे यथार्थौ ।
स्वार्थे हि संमुह्यति तात लोको
मां चापि लोकात्मकमेव विद्धि ॥ 6-3-61(38753)
प्रसादये त्वामतुलप्रभावं
त्वं नो गतिर्दर्शयिता च धीरः ।
न चापि ते वशगा मे सुताश्च
न चाधर्मं कर्तुमर्हा हि मे मतिः ॥ 6-3-62(38754)
त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः ।
कुरूणां पाण्डवानां च मान्यश्चापि पितामहः ॥ 6-3-63(38755)
व्यास उवाच। 6-3-64x(3960)
वैचित्रवीर्य नृपते यत्ते मनसि वर्तते।
अभिधत्स्व यथाकामं छेत्ताऽस्मि तव संशयम् ॥ 6-3-64(38756)
धृतराष्ट्र उवाच। 6-3-65x(3961)
यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम्।
तानि सर्वाणि भगवञ्छ्रोतुमिच्छामि तत्त्वतः ॥ 6-3-65(38757)
व्यास उवाच। 6-3-66x(3962)
प्रसन्नभाः पावक ऊर्ध्वरश्मिः
प्रदक्षिणावर्तशिखो विधूमः ।
पुण्या गन्धाश्चाहुतीनां प्रवान्ति
जयस्यैतद्भाविनो रूपमाहुः ॥ 6-3-66(38758)
गम्भीरघोषाश्च महास्वनाश्च
शङ्खा मृदङ्गाश्च नदन्ति यत्र।
विशुद्धरश्मिस्तपनः शशी च
जयस्येतद्भाविनो रूपमाहुः ॥ 6-3-67(38759)
इष्टा वाचः प्रसृता वायसानां
संप्रस्थितानां च गमिष्यतां च।
ये पृष्ठतस्ते त्वरयन्ति राज-
न्ये चाग्रतस्ते प्रतिषेधयन्ति ॥ 6-3-68(38760)
कल्याणवाचः शकुना राजहंसाः
शुकाः क्रौञ्चाः शतपत्राश्च यत्र।
प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये
ध्रुवं जयस्तत्र वदन्ति विप्राः ॥ 6-3-69(38761)
अलंकारैः कवचैः केतुभिश्च
सुखप्रणादैर्हेषितैर्वा हयानाम्।
भ्राजिष्मती दुष्प्रतिवीक्षणीया
येषां चमूस्ते विजयन्ति शत्रून् ॥ 6-3-70(38762)
हृष्टा वाचस्तथा सत्वं योधानां यत्र भारत।
न म्लायन्ति स्रजश्चैव ते तरन्ति रणोदधिम् ॥ 6-3-71(38763)
`प्रयाणे वायसो वामे दक्षिणे प्रविविक्षताम्।
पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति ॥ ' 6-3-72(38764)
शब्दरूपरसस्पर्शगन्धाश्चाविकृताः शुभाः ।
सदा हर्षश्च योधानां जयतामिह लक्षणम् ॥ 6-3-73(38765)
अनुगा वायवो वान्ति तथाऽभ्राणि वयांसि च ।
अनुप्लवन्ति मेघाश्च तथैवेन्द्रधनूंषि च ॥ 6-3-74(38766)
एतानि जयमानानां लक्षणानि विशांपते ।
भवन्ति विपरीतानि मुमूर्षूणां जनाधिप ॥ 6-3-75(38767)
अल्पायां वा महत्यां वा सेनायामिति निश्चयः।
हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥ 6-3-76(38768)
एको दीर्णो दारयति सेनां सुमहतीमपि ।
तां दीर्णामनुदीर्यन्ते योधाः शूरतरा अपि ॥ 6-3-77(38769)
दुर्निवर्त्या तदा चैव प्रभग्ना महती वमूः ।
अपामिव महावेगा त्रस्ता मगगणा इव ॥ 6-3-78(38770)
नैव शक्या समाधातुं सन्निपाते महाचमूः ।
दीर्ण इत्येव दीर्यन्ते सुविद्वांसोऽपि भारत ॥ 6-3-79(38771)
भीतान्भग्नांश्च संप्रेक्ष्य भयं भूयोऽभिवर्धते।
प्रभग्ना सहसा राजन्दिशो विद्रवते चमूः ।
नैव स्थापयितुं शक्या शूरैरपि महाचमूः ॥ 6-3-80(38772)
सत्कृत्य महतीं सेनां चतुरङ्गां महीपतिः ।
उपायपूर्वं मेधावी यतेत सततोत्थितः ॥ 6-3-81(38773)
उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् ।
जघन्य एष विजयो यो युद्धेन विशांपते ॥ 6-3-82(38774)
महान्दोषः सन्निपातस्तस्याद्यः क्षय उच्यते ।
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः ॥ 6-3-83(38775)
अपि पञ्चाशतं शूरा मृद्गन्ति महतीं चमूम् ।
अपि वा पञ्च षट् सप्त विजयन्त्यनिवर्तिनः ॥ 6-3-84(38776)
न वैनतेयो गरुडः प्रशंसति महाजनम् ।
दृष्ट्वा सुपर्णोऽपचितिं महत्या अपि भारत ॥ 6-3-85(38777)
न बाहुल्येन सेनाया जयो भवति नित्यशः ।
अध्रुवो हि जयो नाम दैवं चात्र परायणम् ।
जयवन्तो हि संग्रामे कृतकृत्या भवन्ति हि ॥ ॥ 6-3-86(38778)
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि तृतीयोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-3-6 वडवा अश्वा श्वा शुनी। करभो मृगविशेषः ॥ 6-3-7 प्रजायन्ते जनयन्ति ॥ 6-3-8 पृथग्जनस्य नीचजनस्य संबन्धिनः क्षुद्रकाः व्यङ्गाः चण्डालादिषु जाताः काणकुब्जादय इत्यर्थः । क्षुद्रा व्यङ्गानटीत्यादिमेदिनी ॥ 6-3-10 नगराणि कृत्रिमाणि शिशव एवावमृद्गन्ति ॥ 6-3-11 कार्तिक्याः परं हि संग्रामारम्भस्तत्र तुलास्थमर्कं राहुरुपैति ॥ 6-3-12 तदैव श्वेतो ग्रहः केतुश्चित्रामतिक्रामति स्वात्यादौ वर्तते । नित्यं समसस्तकस्थौ राहुकेतू इदानीमेकराशिगतौ महानिष्टसूचकाविति भावः ॥ 6-3-13 धूमकेतुरुपग्रहविशेषः स पुष्यं क्षत्रियनक्षत्रमाक्रम्य तिष्ठति। तथा वक्ष्यमाणरीत्या ज्येष्ठास्थेनापि केतुना पुष्यो विद्धस्तथा च स्वनक्षत्रे क्रूराक्रान्ते क्रूरविद्धे च सत्यवश्यं क्षत्रियाणां नाशो भवतीत्यर्थः । यथोक्तम् । कृत्तिकायां तथा पुष्पे रेवत्यां च पुनर्वसौ । वेधे सति त्रमाद्वेधो वर्णेषु ब्राह्मणादिष्विति नरतिविजये ॥ 6-3-14 भगं नक्षत्रं पूर्वाफल्गुनी । श्रुतिमते तूत्तराफल्गुनी ॥ 6-3-15 पूर्वेप्रोष्ठपदे पूर्वाभाद्रपदानक्षत्रं समारुह्य परिक्रम्य परिघाख्य उपग्रहस्तेन सहितः उत्तरे उत्तराभाद्रपदानक्षत्रं उदीक्षते आक्रान्तुमिच्छति ॥ 6-3-16 श्यामो द्वितीय उपग्रहः केतुसंज्ञः ऐन्द्रं ज्येष्ठां नक्षत्रमिति योज्यम् ॥ 6-3-17 परुषग्रहो राहुरेकनक्षत्रस्थौ शशिभास्करौ पीडयति । अपसव्यं प्रवर्तते सर्वदा वक्री सन्। सर्वतोभद्रचक्रे वेधेन कस्वातीस्थः सन् रोहिणीनक्षत्रं च पीडयतीत्यर्थः ॥ 6-3-18 तत्रैव सर्वतोभद्रचक्रे मघास्थो लिहिताङ्गोऽङ्गारको वक्रानुवक्रं कृत्वा पुनःपुनर्वक्रीभूय ब्रह्मणा बृहस्पतिनाक्रान्तं राशिं श्रवणं समावृत्य सम्यक् पूर्णदृष्ट्या विद्वा तिष्ठति ॥ 6-3-19 परिच्छन्ना आच्छादिता । पञ्चशीर्षाणि शिम्बीसदृशानि येषां ते पञ्चशीर्षाः ॥ 6-3-27 पूर्वं श्रवणस्थो बृहस्पतिर्भगनक्षत्रस्थः सूर्यपुत्र इत्युक्तं तावुभौ विशाखासमीपे तिर्यग्वेधेन शतपदे चक्रे विशाखानक्षत्रं विध्यत इत्यर्थः ॥ 6-3-28 अपर्वणि पर्व दर्शाख्यं पञ्चदशेह्नि भवति एकतिथिवृद्धौ षोडशे वा एकतिथिक्षये चतुर्दशे वाह्नि भवति। तिथिद्वयक्षयस्तु लोकेऽत्यन्तमप्रसिद्ध इति अपर्वणीत्युक्तं । ग्रहं यातौ राहुणा ग्रहणं प्राप्तौ । एतदेव प्रजासंक्षयहेतुत्वेन शास्त्रे दृष्टमित्याह प्रजेति। अयं श्लोकोत्र दाक्षिणात्यकोशेषु नास्ति। झo पुस्तक एवास्ति॥ 6-3-30 चित्रास्वान्त्यतरस्थः पुरुषो ग्रहो रोहिणीं पीडयतीत्युक्तं तत्र चित्रांशे स्थित्वा रोहिणी अष्टादशत्वेन स्ममुदायिकनक्षत्रं पीडयति। स्वात्यंशे स्थित्वा कृत्तिकां षोडशकत्वेन सांघातिकनक्षत्रं पीडयति। सर्वतोभद्रचक्रे तथा दर्शनात् तदेतदाह कृत्तिकामित्यर्धेन । तीक्ष्णै क्रूरैः कर्मभिरुपलक्षितो राहुरित्यर्थः । धूमकेतुं उत्पातविशेषमनुलक्ष्यावस्थिताः ॥ 6-3-31 त्रिष्विति। त्रिषु सर्वेषु नक्षत्रनक्षत्रेषु विशांपते। गृध्नः संपतते शीर्षं जनयन्भयमुत्तमम् इति झo पाठः ॥ 6-3-32 ग्रस्तावेकमासीं त्रयोदशीम् इति झo पाठः । तत्पक्षे चन्द्रादित्यावुभौ ग्रस्तावित्येतेन श्लोकेनोक्तमर्थं विशदयति द्वाभ्याम्। चतुर्दशीमिति। त्रयोदशीं त्रयोदाशानामह्नां पूरणीं अमावास्यां भूतपूर्वां नाभिजानामि। अतिभूयसा कालेन अयं दुर्योग आगत इति भावः। एकमासीं एकस्मिन्नेव मासे भवाम्। पूर्वं त्रयोदश्यां रात्रौ पक्षसमाप्त्या सूर्यग्रहणमेवोक्तम्। इदानीं तु एकस्मिन्मासे चन्द्रः पूर्वमास्यां राहुणा ग्रहेण ग्रस्तः सूर्योऽमावास्यायाम्। यदा सूर्यो ग्रस्तस्तदा चन्द्रोपि ग्रस्त एव दर्शे तयोः संहतत्वात् ॥ 6-3-33 अपर्वणीति। लोकाप्रसिद्धपर्वणीति पूर्ववत् ज्ञेयम् ॥ 6-3-34 कूपाः कूर्दन्ति क्रीडन्ति वातैः क्षुभ्यन्त इत्यर्थः ॥ 6-3-35 अनयं अनीतिफलम् ॥ 6-3-38 महाभूता वृद्धीभूताः ॥ 6-3-43 शिखराणां द्रुमाग्राणाम् ॥ 6-3-44 पक्वापक्वेति पक्षिरुतानुकरणम्। वावाश्यन्ते अतिशयेन शब्दं कुर्वन्ति ॥ 6-3-45 प्रकिरन्तः शकृन्मूत्रमिति शेषः। व्यालाः दुष्टहस्तिनः । सलिलाश्रयाः अत्यन्तं प्रस्वेदयुक्ताः ॥ 6-3-51 मुनिः एवं तथेत्युक्त्वेति संबन्धः । धृतराष्ट्रेण हेतुना। तदर्थमित्यर्थः। ध्यानं चिन्ताम् ॥ 6-3-55 अयं दुर्योधनः ॥ 6-3-56 सः धर्मः एवं धर्महन्तारं शक्येऽनापदि सत्यां किमर्थमापदीव उन्मार्गगामी भवसीत्यर्थः ॥ 6-3-58 परेण अतिशयेन ॥ 6-3-61 भावाभावौ स्थितिविनाशौ ॥ 6-3-63 त्वं हि धर्मादौ हेतुरित्यर्थः ॥ 6-3-67 रूपं गमकं चिह्नम् ॥ 6-3-68 ये पृष्ठतो भाषमाणा वायसास्ते गन्तारं त्वरयन्ति सिद्धिसूचका इत्यर्थः । ये पुरतो भाषमाणास्ते गमनं निषेधन्तीत्यर्थः ॥ 6-3-83 सन्निपातो योधानां संघर्षः । व्यवधूताः दारादिष्वनासक्ताः ॥ 6-3-85 शूराणां सहायसंपत्तिर्नापेक्षितेत्यत्र दृष्टान्तमाह न वैनतेय इति। महत्या अपि सेनाया अपचितिं प्रतिकारं नाशं वा एकेनैवात्मना कर्तुं शक्यं दृष्ट्वा सुपर्णः शोभनपतत्रः गरुडो नामतः वैनतेयो विनतायाः पुत्रो महाजनं बहुजनसमूहं न प्रशंसति ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|